सुबन्तात् कर्मणः आत्मेच्छायां काम्यच् प्रत्ययो भवति। आत्मनः पुत्रम् इच्छति पुत्रकाम्यति। वस्त्रकाम्यति। योगविभाग उत्तरत्र क्यचो ऽनुवृत्त्यर्थः। ककारस्य इत्सज्ञा प्रयोजनाभावान् न भवति, चकारादित्वाद् व काम्यचः। उपयट्काम्यति।
ननु च द्वावप्येतौ क्यच्काम्यचौ सुबन्तात् कर्मण आत्मेच्छायां विधीयेते, तदेकयोग एव कथं न कृत इत्याह--- "योगविभागः" इत्यादि। "सुप आत्मनः क्यच्काम्यचौ" (इत्येक योगे सत्युत्तरत्र द्वयोरप्यनुवृत्तिः स्यात्। ननु च योगविभागेऽप्यानन्तर्यात् काम्यच एवानुवत्तिः स्यात्,
न क्यचः? नैष दोषः; चकारोऽत्र क्रियते क्यचोऽनुकर्षणार्थः; क्यचोऽनुकर्षणस्यैतत्प्रयोजनम्-- उत्तरसूत्रेऽनुवृत्तिर्यथा स्यात् इह योजनाभावात्। काम्यजपि कस्मान्नानुवत्र्ततत इति चेत्, न; योगविभागसामथ्र्यात्। अथ "लशक्वतद्धिते"
१।३।८ इति ककारस्येत्संज्ञा कस्मान्न भवतीत्याह-- "ककारस्येत्संज्ञा" इत्यादि।
ननु च लोप एव कार्यम्? न कार्यम्; लोप इह हि वर्णस्य कार्यार्थो भव्तयुपदेशः, श्रवणार्थो वा। कार्यं तावदिह नास्ति। तत्रि यदि श्रवणार्थो न स्यादुपदेशोऽनर्थकः स्यात्।
इदं तर्हि कार्यम्-- अग्निकाम्यतीति गुणप्रतिषेधो यथा स्यात्? नैतत् प्रयोजनम्, सार्वधातुकार्धधातुयोरङ्गस्य गुण उच्यते। धातोर्विहितश्च प्रत्ययः शेष आर्धधातुकसंज्ञो भवति; न चायं धातोर्विधीयते,
किं तर्हि? सुबन्तात्। इदं तर्हि प्रयोजनम्-- उपयट्काम्यतीति, वच्चादिना (६।१।
१५) संप्रसारणं यथा स्यात्? नैतदपि; यस्मात् तत्र यजादिभिः किद्विशिष्यते-- यजादीनां यः किदिति।
कश्च यजादीनां कित्? यो यजादिभ्यो विहितः, न चायं तथा विहितः। अभ्युपगम्यापि प्रयोजनं परीहारान्तरमाह-- "चकारादित्वात्" इति। एवं मन्यते-- क्रियते विन्यास एवम्, द्विचकारो निर्देशः, सुप आत्मनः क्यच्च काम्यच्चेति; स इत्संज्ञकश्चकारः ककारस्यत्संज्ञापरित्राणार्थो भविष्यतीति। अथ द्वितीयश्चकारः किमर्थः, यावता "धातोः" (६।१।
१६२) इत्येवमन्तोदात्तत्वं सिद्धम्? इह पुत्रकाम्यिष्यीतति सतिशिष्टस्वरमपि बाधित्वा चित्करणसामथ्र्यात् काम्यच एव स्वरो यथा स्यात्। "उपयट्काम्यति" इति। "विजुपे छन्दसि"
३।२।७३ इति विच्, उपयजमिच्छतीति काम्यच्, व्रश्चादिना
८।२।३६ षत्वम्, तस्य जश्त्वं डकारः, तस्यापि "वावसाने"
८।४।५५ इति चर्त्वं टकारः॥
"सुप आत्मनः क्य"जित्युत्तरमिदं सूत्रम्। तदाह-- उक्तविषये इति। पुत्रकाम्यतीति। कस्येत्संज्ञा तु न, फलाऽभावात्। अनर्थकत्वादिति। काम्यच एकदेशस्य यकारस्य अर्थाऽभावादित्यर्थः। ननु बेभिदितेत्यत्राऽपि यकारस्य अनर्थकत्वाल्लोपो न स्यादित्यत आह--यस्येतीति। "यस्य हलःर" इत्यत्र "यस्ये"त्यनेन यकाराऽकारसङ्घातग्रहणमित्यनुवपदमेवोक्तमित्यर्थः। तथा च बेभिद्य इता इति स्थिते यङो यस्य सङ्घातस्याऽर्थवत्त्वाद्यकारलोपो निर्बाधः। प्रकृते तु काम्यजेकदेशस्य यस्याऽनर्थकत्वाल्लोपो नेति भावः। यशस्काम्यतीति। "सोऽपदादौ" इति सत्वम्। ननु किमात्मन इच्छति किंकाम्यति,
स्वःकाम्यतीति कथम्? "मान्ताव्ययानां ने"त्यनुवृत्तेरित्यत आह-- मान्ताव्ययेभ्योऽप्ययमिति।